Shree Swami Samarth Nam:

|| श्री स्वामी समर्थ ||


|| ।श्री सौभाग्य-कवच-स्तोत्र-साधना ||



।श्री गणेशाय नमः।
श्री स्वामी समर्थाय नमः ।
॥ श्री ललिता-त्रिपुर-सुन्दर्यै नमः॥
॥ पूर्व-पाठिका-श्री पार्वत्युवाच ॥
कैलास-शिखरे रम्ये, सुखासीनं सुरार्चितम्‌। गिरीशं गिरिजा स्तुत्वा,
स्तोत्र्वेदान्त-पारगेः।। प्रणम्य परया भक्त्या,
तमपृच्छत्‌ कृताञ्जलिः।रहस्यं रक्षणं किं वा, सर्व-सम्पत्‌-करं वद ।।१।।
॥ श्री शिव उवाच ॥
शृणु देवि! प्रवक्ष्यामि, यस्मात्‌ त्वं परिपृच्छसि। यस्य श्रवण - मात्रेण, भव -भीतिर्न जायते।।
एतत्‌ सौभाग्य-कवचं, रहस्याति-रहस्यकम्‌। सौभाग्य-कवचं देवि! शृणु सौभाग्य-दायकम्‌।।२।।
॥ विनियोग ॥
ॐ अस्य श्रीसौभाग्य-कवच-रतोत्रस्य श्री आनन्द-भैरवो ऋषिः। अनुष्टुप्‌ छन्द :।
श्री सौभाग्य-सुन्दरी देवता। ॐ क्लीं सौ: बीजं। ह्रीं क्लीं शक्तिः आं ह्रीं क्रों कीलकं ।
सर्व-सौभाग्य-सिद्धयर्थे पाठे विनियोगः ।।
।। ऋष्यादि-न्यास ।।
शिरसि श्री आनन्द-भैरवाय-ऋषये नमः। मुखे अनुष्टुप्‌-छन्दसे नमः।
हदि श्री सौभाग्य-सुन्दरी-देवतायै नमः: । गृह्ये ॐ क्लीं सौः-बीजाय नमः।
पादयोः ह्रीं क्लीं शक्तये नमः। नाभो आं ह्रीं क्रों कीलकाय नमः।
सर्वाङ्गे सर्व-सौभाग्य-सिद्धयर्थे पाठे विनियोगाय नमः
॥ कर-न्यास ।।
ॐ ऐं अंगुष्ठाभ्यां नमः। ॐ क्लीं तर्जनीभ्यां नमः।
ॐ सौ: मध्यमाभ्यां नम :। ॐ ऐं अनामिकाभ्यां नमः।
ॐ क्लीं कनिष्ठिकाभ्यां नमः। ॐ सौः कर-तल-कर-पृष्ठाभ्यां नमः।
।। अङ्ग-न्यास ॥
ॐ ऐं हृदयाय नमः। ॐ क्लीं शिरसे स्वाहा। ॐ सौः शिखायै वषट्‌।
ॐ ऐं कवचाय हुम्‌। ॐ क्लीं नेत्र-त्रयाय वोषट्‌। ॐ सोः: अस्त्राय फट्‌।
॥ ध्यान ॥
ऐहिक-पर-फल-दात्री-मैशानीं मनसि भावये मुद्राम्‌। ऐन्दव-कलावतं-सामैश्वर्य-स्फुरण-परिणतिं जगताम्‌।।१।।
क्लीवत्व-देत्य-हन्त्रीं क्लिन्नं-मनस्कां महेश्वराश्लिष्टाम्‌। क्लृप्त-जनेष्ट-कर्त्री कल्पित-लोक-प्रभां नमामि कलाम्‌।।२।।
सौभाग्य-दिव्यक-निधिं सौरभ-कच-वृन्द-विचलदलि-मालाम्‌। सोशील्यशेष-तल्पां सौन्दर्य-विभा-मञ्जरीं कलये।।३।।
पाश-पाणि सृणि-पाणि भावये चाप-पाणि शर-पाणि दैवतम्‌। यत्‌-प्रभा-पटल-पाटलं जगत्‌ पद्म-राग-मणि-मण्डपायते। ।४।।
हेमाद्रौ हेम-पीठ-स्थितामखिल-सुरैरीड्यमानां विराजत्‌।पुष्पेषिष्वास-पाशांकुश-कर-कमलां रक्त-वेषाति-रक्ताम्‌।। ५।।
दिक्षूद्यद्धिश्चतुर्मर्मणि-मय-कलशेः पञ्च -शक्त्याश्चितेः स्व- भ्रष्टे: क्लृप्ताभिषेकां भजत भगवतीं भूतिदामन्त्य-यामे।।६।।
॥ मानस-पूजन ।।
ॐ लं पृथिवी-तत्त्वात्मक गन्धं श्रललिता-त्रिपुरा-प्रीतये समर्पयामि नमः।
ॐ हं आकाश-तत्त्वात्मक पुष्पं श्रीललिता-त्रिपुरा-प्रीतये समर्पयामि नम:।
ॐ यं वायु-तत्त्वात्मक धूपं श्रीललिता-त्रिपुरा-प्रीतये घ्रापयामि नमः।
ॐ रं अग्नि-तत्वात्मक दीपं श्रीललिता- त्रिपुरा-प्रीतये दर्शयामि नमः।
ॐ वं जल-तत्त्वात्मक नैवेद्यं श्रीललिता-त्रिपुरा-प्रीतये निवेदयामि नमः।
ॐ ॐ सं सर्व-तत्त्वात्मक ताम्बूलं श्रीललिता-त्रिपुरा-प्रीतये समर्पयामि नमः।
॥ मूल कवच-पाठ ।।
शिखाग्रं सततं पातु, मम त्रिपुर - सुन्दरी।
शिरः कामेश्वरी नित्या, तत्‌-पूर्वं भग-मालिनी।। १ ॥
नित्य-क्लिन्नाऽवतादक्षं, भेरुण्डा तस्य पश्चिमम्‌।
वन्हि-वासिन्यवेद्‌ वामं, मुखं विद्येश्वरी तथा ।। २ ॥।
शिव-दूती ललाटं मे, त्वरिता तस्य दक्षिणम्‌।
तद्‌-वाम - पार्श्वमवतात्‌, तथैव कुल - सुन्दरी।। ३।।
नित्या पातु भ्रुवोर्मध्यं, भ्रुवं नील - पताकिनी।
वाम-भृवं तु विजया, नयनं सर्वं - मङ्गला ॥ ४।।
ज्वाला-मालिन्यक्षि वामं, चित्रा रक्षतु पक्ष्मणी।
दक्ष-श्रोत्रं महा-नित्या, वामं पातु महोद्यमा ।। ५ ।।
दक्षं वामं च वटुका, कपोलौ क्षेत्र - पालिका।
दक्ष - नासा - पुटं दुर्गा, तदन्यं तु भारती ।। ६ ।।
नासिकाग्रं सदा पातु, महा - लक्ष्मर्निरन्तरम्‌।
अणिमा दक्ष - कटि, महिमा च तदन्यकम्‌।। ७ ॥
दक्ष-गण्डं च गरिमा, लधिमा चोत्तरं तथा ।
ऊर्ध्वोष्ठकं प्राप्ति-सिद्धि:, प्राकाम्यमधरोष्ठकम्‌ ॥ ८ ।।
ईशित्वमूर्ध्व- दन्तांश्च, ह्यधो-दन्तान्‌ वशित्वकम्‌ ।
रस-सिद्धिश्च रसनां, मोक्ष-सिद्धिश्च तालुकम्‌ ।। ९ ।।
तालु - मूल-द्वयं ब्राह्मी - माहेश्वर्यो च रक्षताम्‌ ।
कौमारी चिबुकं पातु, तदधः पातु वैष्णवी ।। १० ॥।
कण्ठं रक्षतु वाराही, चैन्द्राणी रक्षतादधः।
कृकाटिकां तु चामुण्डा, महा-लक्ष्मीस्तु सर्वतः ॥ ११।।
सर्व-संक्षोभिणी-मुद्रा, स्कन्धं रक्षतु दक्षिणम्‌ ।
तदन्यं द्राविणी-मुद्रा, पायादंस - द्वयं क्रमात्‌ ।। १२ ।।
आकर्षणी वश्य-मुद्रा, चोन्मादिन्यथ दक्षिणम्‌ ।
भुजं महांकुशा वामं, खेचरी दक्ष - कक्षकम्‌ ।। १३ ।।
वाम-कक्षं बीज-मुद्रा, योनि-मुद्रा तु दक्षिणम्‌ ।
लसत्‌ त्रिखण्डिनी-मुद्रा, वाम - भागं प्रपालयेत्‌ ।। १४ ।।
श्रीकामाकर्षिणी नित्या, रक्षताद्‌ दक्ष - कूर्परम्‌ ।
कूर्परं वाममवतात्‌, सा बुद्धयाकर्षिणी तथा ॥ १५ ।।
अहङ्काराकर्षिणी तु, प्रकाण्डं पातु दक्षिणम्‌ ।
शब्दाकर्षिणिका वामं, स्पर्शाकिर्षिणिकाऽवतु ।। १६ ।।
प्रकोष्ठं दक्षिणं पातु, रूपाकर्षिणिकेतरम्‌ ।
रसाकर्षिणिका पातु मणि-वन्धं च दक्षिणम्‌ ॥ १७ ।।
गन्धाकर्षिणिका वामं, चित्ताकर्षिणिकाऽवतु ।
करभं दक्षिणं धैर्याकर्षिणी पातु वामकम्‌ ॥ १८ ॥
स्मृत्याकर्षिण्यसो वामं, नामाकर्षिणिकेतरम्‌ ।
बीजाकर्षिणिका पायात्‌, सततं दक्षिणांगुलीः ।। १९ ॥
आत्माकर्षिणिका त्वन्या, अमृताकर्षिणी नखान्‌ ।
शरीराकर्षिणी वाम - नखान्‌ रक्षतु सर्वदा ॥ २० ॥
अनङ्ग-कुसुमा शक्तिः, पातु दक्षिण - स्तनोपरि ।
अनङ्ग - मेखला चान्य - स्तनोर्ध्वमभि-रक्षतु ।। २१।।
अनङ्ग - मदना दक्ष - स्तनं तच्चूचुकं पुनः।
रक्षतादनिशं देवी, ह्यनङ्ग - मदनातुरा ।। २२ ।।
अनङ्ग -रेखा वामं तु, वक्षोजं तस्य चूचुकम्‌ ।
अनङ्ग - वेगिनी क्रोडमनङ्घस्यांकुशाऽवतु ।। २३ ।।
अनङ्ग-मालिनी पायाद्‌, वक्ष -स्थलमहर्निशम्‌ ।
सर्व-संक्षोभिणी शक्तिर्हत्‌ सर्व-द्राविणी परा ।। २४ ।।
कुक्षिं सर्वाकर्षिणी तु, पातु पाश्वं च दक्षिणम्‌ ।
आहलादिनी वाम-पार्श्व, मध्यं सम्मोहिनी चिरम्‌ ॥ २५ ॥
सा सर्व-स्तम्भिनी पृष्ठं, नाभि वे सर्व-जुम्भिणि ।
वशङ्करी वस्ति-देशं, सर्वं - रञ्जिनी मे कटिम्‌ ॥ २६ ॥।
सा तु सर्वान्मादिनी मे, पायाज्जघन-मण्डलम्‌ ।
सर्वार्थ-साधिनी शक्तिः, नितम्बं रक्षतान्मम ॥ २७ ।।
दक्ष-स्फिचं सदा पातु, सर्व-सम्पत्ति-पूरिणी ।
सर्व-मन्त्र-मयी शक्तिः, पातु वाम-स्फिचं मम ॥ २८ ॥
पायात्‌ कुकुन्दर-द्वन्दं, सर्व-द्वन्द-क्षयङ्करी।
सर्व-सिद्धि-प्रदा देवी, पातु दक्षिण वक्षणम्‌ ॥ २९ ।।
सर्व-सम्पत्‌-प्रदा देवी, पातु मे वाम-वक्षणम्‌ ।
सर्व-प्रियङ्करी देवी, गुह्यं रक्षतु मे सदा ॥ ३० ॥।
मेढ्रं रक्षतु मे देवी, सर्व-मङ्गल-कारिणी ।
सर्व-काम-प्रदा देवी, पातु मुष्कं तु दक्षिणम्‌ ॥ ३१ ।।
पायात्‌ तदन्यमुष्कं तु, सर्व-दुखः-विमोचिनी ।
सर्व-मृत्यु-प्रशमनी, देवी पातु गुदं मम ।। ३२ ।
पातु देवी गृह्य-मध्यं. सर्व-विघ्न-निवारिणी ।
सर्वाङ्ग-सुन्दरी देवी, रक्षताद्‌ दक्ष-सक्थिकम्‌ ।। ३३ ॥ ।
वाम- सक्थि-तलं पायात्‌, सर्व-सौभाग्य-दायिनी ।
अष्ठीवं मम सर्वज्ञा, देवी रक्षतु दक्षिणम्‌ ।। ३४ ॥।
वामाष्ठीवं सर्व-शक्तिः, देवी पातु युगं मम।
सर्वेश्वर्य-प्रदा देवी, वक्ष-जानुं सदाऽवतु ।। ३५ ।।
सर्व-ज्ञान-मयी देवी, जानुमन्यं ममावतात्‌ ।
अव्याद्‌ देवी वक्ष-जघां, सर्व-व्याधि-विनाशिनी ।। ३६ ।।
तदन्यां पातु देवी सा, सर्वाधार-स्वरूपिणी ।
सर्व-पाप-हरा देवी, गुल्फं रक्षतु दक्षिणम्‌ ।। ३७ ।।
सर्वानन्द-मयी देवी, वाम-गुल्फं सदाऽवतु ।
पार्ष्णिं मे दक्षिणं पायात्‌, सर्व-रक्षा-स्वरूपिणी ।। ३८ ।।
अव्यात्‌ सदा सदा पार्ष्णिं , सर्वेष्सित-फल-प्रदा ।
दक्षांघ्रि -पार्श्व वशिनी, पूर्वं वाग्‌-देवता मम।। ३९ ।।
सर्वं कामेश्वरी चोर्ध्वमधो वाग्‌ - देवता मम ।
मोदिनी प्रपदं पातु, विमला दक्षिणेतरे ।। ४० ।।
अगुलीररुणा पातु, दक्ष-पाद-नखोज्ज्वला ।
तदन्या जयिनी पातु, सदा सर्वेश्वरी मम ।। ४१ ।।
दक्ष-वाम-पाद-तलं, कौलिनी देवता मम ।
कुर्वन्तु जृम्भणा बाणाः, त्रैलोक्याकर्षणं मम ॥ ४२ ।
मोहं संहरतादिक्षु-कोदण्डं भृंङ्गमौविक्रम ।
करोतु सततं पाशो, वशीकरणमदभुतम्‌ ।। ४३ ।।
विदध्यादकुशं नित्यं, स्तम्भनं शत्रु-सङ्कटे ।
पीठं मे काम-रूपाख्यं, पातु कामान्तिकं मनः ॥ ४४ ।
पूर्णं पूर्ण-गिरेः पीठं, कान्ति मे जनयेत्‌ सदा ।
जालन्धरमन्य-जालन्धर-पीठं मे रक्षतु ॥ ४५ ।।
सायुज्ये नियतां प्रज्ञा, श्री-पीटं श्री-करं मम ।
कामेश्वरी त्वात्म-तत्त्वं, रक्षेद्‌ वज्रेश्वरी तथा ।। ४६ ॥
विद्या-तत्त्वं शैव-तत्वं, पायाकछीभग-मालिनी ।
कामं विद्यान्महा-शत्रूनमृतार्णव-मानसम्‌ ।। ४७ ।।
क्रोधं क्रोधपहा हन्यान्मन्युं पैताम्बुजासनम्‌ ।
लोभ चिदासनं हन्याद्‌, देव्यात्मामृत-रूप-भाक्‌ ॥ ४८ ॥
मोहं संहरताच्चक्र, मदं मन्त्रासनं मम।
मात्सर्य नाशये्नित्यं, मम सान्ध्यासनं तथा ।। ४९ ॥
आधारं त्रिपुरा रक्षेत्‌, स्वाधिष्ठानं पुरेश्वरी ।
मणि-पूरं मणि-द्योता, पायात्‌ त्रिपुर-सुन्दरी ।। ५० ।।
अव्यादनाहतं भव्या, नित्यं त्रिपुर-वासिनी ।
विशुद्धि त्रिपुरा श्रीश्च, आज्ञां त्रिपुर-मालिनी ।। ५१ ।।
इडां मे त्रिपुर-सिद्धा, त्रिपुरा चापि पिङ्गलाम्‌ ।
सुषुम्नां पातु मे नित्या, पायात्‌ त्रिपुर-भैरवी ॥ ५२ ।।
त्रेलोक्य-मोहनं चक्र, रोम-कृपांश्च रक्षतु ।
सर्वाशा-पूरकं चक्रं, सप्त-धातुँच रक्षतु ।। ५३ ।।
सर्व-संक्षोभणं चक्र, प्राणाद्यं वायु-पञ्चकम्‌ ।
सौभाग्यदायकं चक्रं, नागाद्यनिल-पञ्चकम्‌ ॥ ५४ ॥
सर्वार्थ-साधकं चक्र, कारणानां चतुष्टयम्‌ । -
सर्व-रक्षा-करं चक्रं, रक्षतान्मे गुण-त्रयम्‌ ।। ५५ ।।
सर्व-रोग-हरं चक्र, पायात्‌ पुर्यष्टकं मम ।
सर्व-सिद्धि-प्रदं चक्रमव्यान्मे कोश-पञ्चकम्‌ ॥ ५६ ॥
सर्वानन्द-मयं चक्र, यशः कीर्तिं च रक्षतु ।
सौन्दर्यं मन्मथः पायाद्‌, धृतिश्चापि रतिं मम ॥ ५७ ॥
प्रीतिं मे पातु या प्रीतिः, रूपं पातु वसन्तकः ।
सङ्कल्पं कल्पकोद्यानं, महा- लक्ष्मी श्रियं मम ।। ५८ ।।
कान्ति कपालिनी रक्षेत्‌, मन्दिरं मणि-मण्डपः ।
पुत्रान्‌ शङ्ख-निधिः पायाद्‌, भार्या पद्म-निधिस्तथा ॥ ५९ ॥।
मार्गे क्षेमङ्करी रक्षेत्‌, मातङ्गी मुकुटं तथा ।
योगिनी प्रकटाद्यास्ता, नव-द्वाराणि पान्तु मे ।। ६० ।।
भोजने मामन्न-पूर्णा, मातङ्गी क्रीडनेऽवतात्‌ ।
वने रक्षतु मां दुर्गा, जाग्रती दुष्ट-निग्रहे ।। ६१ ॥
त्रिधाऽ हंङ्कार-नैष्ठुर्य-दोष-त्रयं मल-त्रयम्‌ ।
डाकिन्यो योगिनी-मुख्याः, संहरन्तु ममानिशम्‌ ॥ ६२ ।।
इच्छा-शक्तिर्गुरोर्भकिंति, पातु मे ज्ञानमात्मनि ।
ज्ञानशक्तिः क्रिया-शक्तेः, वेराग्य-विषयेष्वपि ॥ ६३ ॥
ह्रत्‌-पद्म-कर्णिका-मध्ये, ह्रीङ्कारी परि-रक्षतु ।
वैखरी श्रवणं पातु, मध्यमा मननं पुनः ।। ६४ ।।
योगं रक्षतु पश्यन्ती, साक्षात्‌ ज्ञान-परा मम ।
ब्रह्माणी जागृतं पातु, शयानं वेष्णवी तथा ।। ६५ ॥।
सुषुप्तो चण्डिका पातु, तुर्या मे मोह-कारिणी ।
सदा मां भैरवी पातु, जगद्‌-भरण-पण्डिता ।। ६६ ।।
चरणाम्भोरुहानन्द - परामृत - ररोरिता ।
प्लाविनी कुण्डली पूर्णा, अन्तरान्तं सदाऽवतात्‌ ।। ६७ ।।
अष्ट-दिक्षु महेन्दराद्या, सायुधाः पान्तु सर्वदा ।
पायादूर्ध्वा दिशं ब्रह्मा, विष्णुश्चक्रायुधोप्यधः ॥ ६८ ।
अनावृत्तानि स्थानानि, कवचेन तु यानि मे।
तानि सर्वाणि रक्षन्तु, शिवाद्या गुरवः सदा ॥ ६९ ।।
॥ फल-श्रुति ।।
एतत्‌ सौभाग्य-कवचं, शांङ्करं यस्तु पाठयेत्‌।त्रि-सन्ध्यं यः पठेद्‌ भक्त्या, शृणुयाद्‌ वा समाहितः ।। १ ।।
तस्य शीघ्रेण सिध्यन्ति, सिद्धयस्त्वणिमादयः ।गुटिका-पादुकाद्यष्ट-सिद्धयः सम्भवन्ति च ।। २ ।।
वश्यादीन्यष्ट - कर्माणि, योगश्चाष्टाङ्ग - संयुतः ।ब्रह्मा - विष्णु - गिरीशेन्द्र - कन्दर्पं - रतिभिः सह।। ३ ।।
विचरन्ते तदखिलान्‌, सिद्ध - गन्धर्वं - सेविता।तस्य स्मरणमात्रेण, ग्रह-भूत-पिशाचकाः ॥ ४ ।।
कीट-वत्‌ प्र-पलायन्ते, कूष्माण्डा भैरवादयः।तस्यांघ्रि -तोय-पतनात्‌, प्रशाम्यति महा-रुजाः ।। ५ ।।
तत्‌ - पाद - कमलासक्त - रजो - लेशाभि - मर्शनात्‌ ।वश्यं भवति शीघ्रेण, त्रैलाक्यं स-चराचरम्‌ ।
आबाल-महिला-भूपाः, किमु माया-विमोहिताः ।। ६ ।।
॥ श्री वामकेश्वर-तन्त्रे नित्या-षोडशिकारण्वे श्री सौभाग्य-कवचम्‌ संपूर्णं ॥

॥ श्रीगुरुदत्तात्रेयार्पणमस्तु ॥
|| श्री स्वामी समर्थापर्ण मस्तु||


Download pdf
Back