Shree Swami Samarth Nam:

|| श्री स्वामी समर्थ ||


|| श्री सिद्ध लक्ष्मी स्तोत्र ||


विनियोगः
ॐ अस्य श्री सिद्धलक्ष्मीस्तोत्रमन्त्रस्य हिरण्यगर्भऋषिः अनुष्टुप्छन्दः
श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः श्रीं बीजं ह्रीं शक्तिः क्लीं
कीलकं मम सर्वक्लेशपीडापरिहारार्थं सर्वदुःखदारिद्र्यनाशनार्थं सर्वकार्यसिध्यर्थं
च श्रीसिद्धलक्ष्मीस्तोत्रपाठे विनियोगः ।।

ऋष्यादिन्यास :
ॐ हिरण्यगर्भ ऋषये नमः शिरसि ।।
अनुष्टुप्छन्दसे नमो मुखे ।।
श्रीमहाकालीमहालक्ष्मीमहासरस्वती देवताभ्यो नमो हृदि ।।
श्रीं बीजाय नमो गुह्ये ।।
ह्रीं शक्तये नमः पादयोः ।।
क्लीं कीलकाय नमो नाभौ ।
विनियोगाय नमः सर्वाङ्गेषु ।

करन्यास
ॐ श्रीं सिद्धलक्ष्म्यै अङ्गुष्ठाभ्यां नमः ।
ॐ ह्रीं विष्णुतेजसे तर्जनीभ्यां नमः ।
ॐ क्लीं अमृतानन्दायै मध्यमाभ्यां नमः ।
ॐ श्रीं दैत्यमालिन्यै अनामिकाभ्यां नमः ।
ॐ ह्रीं तेजःप्रकाशिन्यै कनिष्ठिकाभ्यां नमः ।
ॐ क्लीं ब्राह्म्यै वैष्णव्यै रुद्राण्यै करतलकरपृष्ठाभ्यां नमः ।

हृदयादि षडङ्गन्यास
ॐ श्रीं सिद्धलक्ष्म्यै हृदयाय नमः ।
ॐ ह्रीं विष्णुतेजसे शिरसे स्वाहा ।
ॐ क्लीं अमृतानन्दायै शिखायै वषट नमः ।
ॐ श्रीं दैत्यमालिन्यै कवचाय हुम् ।
ॐ ह्रीं तेजःप्रकाशिन्यै नेत्रत्रयाय वौषट ।
ॐ क्लीं ब्राह्म्यै वैष्णव्यै रुद्राण्यै अस्त्राय फट ।
ॐ श्रीं ह्रीं क्लीं सिद्धलक्ष्म्यै नमः
तालत्रयं दिग्बंधनं च कुर्यात ।।


ध्यानं
ब्राह्मीं च वैष्णवीं भद्रां षड्भुजां च चतुर्मुखीम् ।
त्रिनेत्रां खड्ग त्रिशूल पद्मचक्र गदाधराम् ।।
पीताम्बरधरां देवीं नानालङ्कार भूषिताम्
तेजःपुञ्जधरीं देवीं ध्यायेद् बालकुमारिकाम् ।।

ॐ कारं लक्ष्मीरूपं तु विष्णुं हृदयमव्ययम् ।
विष्णुमानन्दमव्यक्तं ह्रींकारं बीजरूपिणीम् ।। 1 ।।

क्लीं अमृतानन्दिनीं भद्रां सदात्यानंददायिनीम्
श्रीं दैत्यशमनीं शक्तिं मालिनीं शत्रुमर्दिनीम् ।। 2 ।।

तेजः प्रकाशिनीं देवीं वरदां शुभकारिणीम् ।
ब्राह्मीं च वैष्णवीं रौद्रीं कालिकारूपशोभिनीम् ।। 3 ।।

अकारे लक्ष्मीरुपं तु उकारे विष्णुमव्ययं ।
मकारः पुरुषोऽव्यक्तो देवीप्रणव उच्यते ।। 4 ।।

सूर्यकोटि प्रतीकाशं चन्द्रकोटिसमप्रभं ।
तन्मध्ये निकरं सूक्ष्मं ब्रह्मरुपं व्यवस्थितम ।। 5 ।।
ॐकारं परमानन्दं सदैव सुखसुंदरीं ।
सिद्धलक्ष्मि मोक्षलक्ष्मि आद्यलक्ष्मि नमोऽस्तु ते ।। 6 ।।
सर्वमंगलमांगल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरी नारायणि नमोऽस्तु ते ।
प्रथमं त्र्यम्बका गौरी द्वितीयं वैष्णवी तथा ।
तृतीयं कमला प्रोक्ता चतुर्थं सुंदरी तथा ।। 7 ।।



पञ्चमं विष्णुशक्तिश्च षष्ठं कात्यायनी तथा ।
वाराही सप्तमं चैव ह्यष्टमं हरिवल्लभा ।। 8 ।।

नवमी खडिगनी प्रोक्ता दशमं चैव देविका ।
एकादशं सिद्धलक्ष्मीर्द्वादशं हंसवाहिनी ।। 10 ।।

एतत्स्तोत्रवरं देव्या ये पठन्ति सदा नराः ।
सर्वापद्भयो विमुच्यन्ते नात्र कार्या विचारणा ।। 11 ।।

एकमासं द्विमासं च त्रिमासं माञ्चतुष्टयं ।
पञ्चमासं च षण्मासं त्रिकालं यः सदा पठेत ।। 12 ।।

ब्राह्मणः क्लेशितो दुःखी दारिद्र्यामयपीडितः ।
जन्मान्तरसहस्त्रोत्थैर्मुच्यते सर्वकिल्बिषैः ।। 13 ।।

दरिद्रो लभते लक्ष्मीमपुत्रः पुत्रवान भवेत् ।
धन्यो यशस्वी शत्रुघ्नो वह्निचॉैरभयेषु च ।। 14 ।।

शाकिनी भूतवेताल सर्पव्याघ्र निपातने ।
राजद्वारे सभास्थाने कारागृह निबन्धने ।। 15 ।।

ईश्वरेण कृतं स्तोत्रं प्राणिनां हितकारकं ।
स्तुवन्तु ब्राह्मण नित्यं दारिद्र्यं न च बाधते ।
सर्वपापहरा लक्ष्मीः सर्वसिद्धिप्रदायिनी ।। 16 ।।

।। इति श्रीब्रह्मपुराणे ईश्वरविष्णु संवान्दे श्रीसिद्धलक्ष्मी स्तोत्रं सम्पूर्णं ।।


॥ श्री गुरुदत्तात्रेयार्पणमस्तु ॥
|| श्री स्वामी समर्थापर्ण मस्तु||

Download pdf
Back