Shree Swami Samarth Nam:

|| श्री स्वामी समर्थ ||


|| ब्रह्माकृत सावित्रीदेवी स्तोत्र ||


ब्रह्मोवाच
नारायणस्वरुपे च नारायणि सनातनि ।
नारायणसमुद्भूते प्रसन्ना भव सुन्दरि ॥ १ ॥
तेजःस्वरुपे परमे परमानन्दरुपिणि ।
द्विजातीनां जातिरुपे प्रसन्ना भव सुन्दरि ॥ २ ॥
नित्ये नित्यप्रिये देवि नित्यानन्दस्वरुपिणि ।
सर्वमङ्गलरुपेण प्रसन्ना भव सुन्दरि ॥ ३ ॥
सर्वस्वरुपे विप्राणां मन्न्रसारे परात्परे ।
सुखदे मोक्षदे देवि प्रसन्ना भव सुन्दरि ॥ ४ ॥
विप्रपापेध्मदाहाय ज्वलदग्निशिखोपमे ।
ब्रह्मतेजःप्रदे देवि प्रसन्ना भव सुन्दरि ॥ ५ ॥
कायेन मनसा वाचा यत्पापं कुरुते द्विजः ।
तत् ते स्मरणमात्रेण भस्मीभूतं भविष्यति ॥ ६ ॥
॥ इति श्रीब्रह्मवैवर्तपुराणे प्रकृतिखण्डे श्रीब्रह्मदेवकृतं
श्रीसावित्रीदेवी स्तोत्रं संपूर्णम् ॥


॥ श्री गुरुदत्तात्रेयार्पणमस्तु ॥
|| श्री स्वामी समर्थापर्ण मस्तु||

Download pdf
Back