।। देव्युवाच ।।
ये ये मम सुता जातास्ते ते कंसनिषूदिताः ।
कथं में ते सन्तन्तिस्तिष्ठेद् ब्रूहि में मुनिपुङ्गव ।
।। नारद उवाच ।।
येनोपायेन लोकानां सन्तन्तिश्चिरजीविता ।
तते सर्वं प्रवक्ष्यामि सावधानावधारय ।
।। विनियोग ।।
ॐ अस्य स्कन्दाक्षयकवचस्य नारदऋषिरअनुष्टुप्
छन्दः सेनानीर्देवता वत्सरक्षणे विनियोगः ।
बाहुलेयः शिरः पायात्स्कन्धौ शङ्करनन्दनः ।
मुण्डं में पार्वतीपुत्रो हृदयँ शिखिवाहनः ।
कटिं पायाच्छक्तिहस्तो जङ्घे में तारकान्तकः ।
गुहो में रक्षतां पादौ सेनानिर्वत्समुत्तमम् ।
स्कन्दो में रक्षतामङ्गं दश दिगग्निभूर्मम् ।
षाण्मातुरो भये घोरे कुमारोऽव्यात् श्मशानके ।
इति ते कथितं भद्रे कवचं परमाद्भुतम् ।
धृत्वा पुत्रमवाप्नोति सुभव्यं चिरजीविनम् ।
नारदस्य वचः श्रुत्वा कवचं विधृतं तया ।
कवचस्य प्रसादेन जीववत्सा भवेत्सती ।
कवचस्य प्रसादेन तस्याः पुत्रो जनार्दनः ।
धारिकायास्तथा पुत्रो निर्जरैरपि दुर्जयः ।
।। इती श्री कार्तिकेय अक्ष कवच संपूर्ण ।।