Shree Swami Samarth Nam:

|| श्री स्वामी समर्थ ||


|| श्रीकमलात्मिका कवचम् ||


श्रीगणेशाय नमः ।

अथ वक्षे महेशानि कवचं सर्वकामदम् ।
यस्य विज्ञानमात्रेण भवेत्साक्षात्सदाशिवः ॥ १ ॥

नार्चनं तस्य देवेशि मन्त्रमात्रं जपेन्नरः ।
स भवेत्पार्वतीपुत्रः सर्वशास्त्रविशारदः ॥ २ ॥

विद्यार्थिनां सदा सेव्या धनदात्रीविशेषतः ।
वनार्थिभिः सदा सेव्या कमला विष्णुवल्लभा ॥ ३ ॥

विनियोगः
ॐ अस्याश्चतुरक्षरी विष्णुवल्लभायाः
कवचस्य श्री भगवान् शिव ऋषीः ।
अनुष्टुप्छन्दः ।
वाग्भवीशक्तिर् देवता ।
वाग्भवं बीजं ।
लज्जा रमा कीलकम् ।
कामबीजात्मकं कवचम् मम
सुपाण्डित्य-कवित्व-सर्वसिद्धि-समृद्धये पाठे विनियोगः ॥


ऐङ्कारो मस्तके पातु वाग्भवो सर्वसिद्धिदा ।
ह्रीँ पातु चक्षुषोर्मध्ये चक्षुर्युग्मे च शाङ्करी ॥ ४ ॥

जिह्वायां मुखवृत्ते च कर्णयोर्दन्तयोर्नसि ।
ओष्ठाधरे दन्तपङ्क्तौ तालुमूले हनौ पुनः ॥ ५ ॥

पातु मां विष्णुवनिता लक्ष्मीः श्रीवर्णरूपिणी ।
स्कन्धयुग्मे भुजद्वन्द्वे स्तनद्वन्द्वे च पार्वती ॥ ६ ॥

हृदये मणिबन्धे च ग्रीवायां पार्श्वयोः पुनः ।
पृष्ठदेशे तथा गुह्ये वामे च दक्षिणे तथा ।
उपस्थे च नितम्बे च नाभौ जङ्घाद्वये पुनः ॥ ७ ॥

जानुचक्रे पादद्वन्द्वे घुटिकेऽङ्गुलिमूलके ।
स्वधा तु प्राणशक्त्यात्म सीमन्ते मस्तके पुनः ॥ ८ ॥

विजया पातु भवने जया पातु सदा मम ।
सर्वाङ्गे पातु कामेशी महादेवी सरस्वती ॥ ९ ॥

तुष्टिः पातु महामाया उत्कृष्टिः सर्वदाऽवतु ।
ऋद्धिः पातु महा देवी सर्वत्र शम्भुवल्लभा ॥ १० ॥

वाग्भवो सर्वदा पातु पातु मां हरगेहिनी ।
रमा पातु महादेवी पातु माया स्वराट् स्वयं ॥ ११ ॥

सर्वाङ्गे पातु मां लक्ष्मीर्विष्णुमाया सुरेश्वरी ।
शिवदूती सदा पातु सुन्दरी पातु सर्वदा ॥ १२ ॥

भैरवी पातु सर्वत्र भेरुण्डा सर्वदाऽवतु ।
त्वरिता पातु मां नित्यमुग्रतारा सदाऽवतु ॥ १३ ॥

पातु मां कालिका नित्यं कालरात्रिः सदाऽवतु ।
नवदुर्गाः सदा पातु कामाक्षी (कामाख्या) सर्वदाऽवतु ॥ १४ ॥

योगिन्यः सर्वदा पातु मुद्राः पातु सदा सम ।
मात्राः पातु सदा देव्यश्चक्रस्था योगिनी गणाः ॥ १५ ॥

सर्वत्र सर्वकार्येषु सर्वकर्मसु सर्वदा ।
पातु मां देवदेवी च लक्ष्मीः सर्वसमृद्धिदा ॥ १६ ॥

फलश्रुति
इति ते कथितं दिव्यं कवचं सर्वसिद्धये ।
यत्र पत्र न वक्तव्यं यदीच्छेदात्मनो हितम् ॥ १७ ॥

शठाय भक्तिहीनाय निन्दकाय महेश्वरी ।
न्यूनाङ्गे चातिरिक्ताङ्गे दर्शयेन्न कदाचन ॥ १८ ॥

न स्तवं दर्शयेद्दिव्यं सन्दर्श्य शिवहा भवेत् ।
कुलीनीय महेच्छाय दुर्गाभक्तिपराय च ॥ १९ ॥

वैष्णवाय विशुद्धाय दद्यात्कवचमुत्तमम् ।
निजशिष्याय शान्ताय धनिने ज्ञानिने तथा ॥ २० ॥

दद्यात् कवचमित्युक्तं सर्वतन्त्रसमन्वितम् ।
शनौ मङ्गलवारे च रक्तचन्दनकैस्तथा ॥ २१ ॥

यावकेन लिखेन्मन्त्रं सर्वतन्त्रसमन्वितम् ।
विलिख्य कवचं दिव्यं स्वयम्भु कुसुमैः शुभैः ॥ २२ ॥

स्वशुक्रः प्रशुक्रैर्वा नानागन्ध समन्वितैः ।
गोरोचना कुङ्कुमेन रक्तचन्दनकेन वा ॥ २३ ॥

सुतिथौ शुभायोगे वा श्रवणायां रवेर्दिने ।
आश्विन्याम् कृत्तिकायां वा फाल्गुन्यां वा मघासु च ॥ २४ ॥

पूर्वभाद्रपदायोगे स्वात्यां मङ्गलवासरे ।
विलेखेत्प्रपठेत्स्तोत्रं शुभयोगे सुरालये ॥ २५ ॥

आयुष्मत्प्रीतियोगे च ब्रह्मयोगे विशेषतः ।
ईन्द्रयोगे शुभे योगे शुक्रयोगे तथैव च ॥ २६ ॥

कौलके बालके चैव वणिजे चैव सत्तमः ।
शुन्यागारे श्मशाने च विजने च विशेषतः ॥ २७ ॥

कुमारीं पूजसित्वादौ यजेद्देवीं सनातनीम् ।
मत्स्यैर्माम्सैः शाकसूपैः पूजयेत्परदेवताम् ॥ २८ ॥

घृताद्यैः सोपकरणैः पुष्पधूपैर्विशेषतः ।
ब्रह्मणान् भोग्यित्वा च पूजयेत्परमेश्वरीं ॥ २९ ॥

आखेटकमुपाख्यानं तत्र कुर्याद्दिनत्रयम् ।
तदादरेन्महाविद्यां शङ्करेण प्रभाषिताम् ॥ ३० ॥

मारणद्वैष्णादीनि लभते नात्र संशयः ।
स भवेत्पार्वतीपुत्रः सर्वशास्त्रपुरस्कृतः ॥ ३१ ॥

गुरुद्देवो हरः साक्षात्पत्नी तस्य हरप्रिया ।
अभेदेन भजेद्यस्तु तस्य सिद्धिरदूरतः ॥ ३२ ॥

पठति य एह मर्त्यो नित्यमार्द्रान्तरात्मा ।
जपफलमनुमेयं लप्स्यते यद्विदेयम् ।

स भवति पदमुच्चैः सम्पदां
पादनम्र-क्षितिपमुकुटलक्ष्मीर्लक्षणानां चिराय ॥ ३३ ॥

॥ इति विश्वसारतन्त्रे श्रीकमलात्मिका कवचं सम्पूर्णम् ॥


॥ श्री गुरुदत्तात्रेयार्पणमस्तु ॥
|| श्री स्वामी समर्थापर्ण मस्तु||

Download pdf
Back