Shree Swami Samarth Nam:

|| श्री स्वामी समर्थ ||


||गर्भ रक्षाम्बिका स्तोत्रम्||


।श्री गणेशाय नमः।
श्री स्वामी सामर्थाय नमः ।

श्रीमाधवि काननस्थे गर्भरक्षाम्बिके पाहि भक्तां स्तुवन्तीम् ॥
वापीतटे वामभागे
वामदेवस्य देवस्य देवि स्थिता त्वम् ।
मान्या वरेण्या वदान्या
पाहि गर्भस्थजन्तून् तथा भक्तलोकान् ।
श्रीमाधवि काननस्थे गर्भरक्षाम्बिके
पाहि भक्तां स्तुवन्तीम् ॥ १॥

श्रीगर्भरक्षापुरे या
दिव्यसौन्दर्ययुक्ता सुमाङ्गल्यगात्री ।
धात्री जनित्री जनानां
दिव्यरूपां दयार्द्रां मनोज्ञां भजे त्वाम् ।
श्रीमाधवि काननस्थे गर्भरक्षाम्बिके
पाहि भक्तां स्तुवन्तीम् ॥ २॥

आषाढमासे सुपुण्ये
शुक्रवारे सुगन्धेन गन्धेन लिप्ता ।
दिव्याम्बराकल्पवेषा
वाजपेयादि यागस्थभक्तैः सुदृष्टा ।
श्रीमाधवि काननस्थे गर्भरक्षाम्बिके
पाहि भक्तां स्तुवन्तीम् ॥ ३॥

कल्याणदात्रीं नमस्ये
वेदिकाढ्यस्त्रिया गर्भरक्षाकरीं त्वाम् ।
बालैस्सदा सेविताङ्घ्रिं गर्भरक्षार्थमारादुपेतैरुपेताम् ।
श्रीमाधवि काननस्थे गर्भरक्षाम्बिके
पाहि भक्तां स्तुवन्तीम् ॥ ४॥

ब्रह्मोत्सवे विप्रवीथ्यां
वाद्यघोषेण तुष्टां रथे सन्निविष्टाम् ।
सर्वार्थदात्रीं भजेऽहं
देववृन्दैरपीड्यां जगन्मातरं त्वाम् ।
श्रीमाधवि काननस्थे गर्भरक्षाम्बिके
पाहि भक्तां स्तुवन्तीम् ॥ ५॥

एतत् कृतं स्तोत्ररत्नं
दीक्षितानन्तरामेण देव्याश्च तुष्ट्यै ।
नित्यं पठेद्यस्तु भक्त्या
पुत्रपौत्रादि भाग्यं भवेत्तस्य नित्यम् ॥ ६॥

इति ब्रह्मश्री अनन्तरामदीक्षितवर्यविरचितं
गर्भरक्षा अम्बिका स्तोत्रं सम्पूर्णम् ॥

इति गर्भरक्षाम्बिकास्तोत्रं सम्पूर्णम् ।

॥ श्रीगुरुदत्तात्रेयार्पणमस्तु ॥
|| श्री स्वामी समर्थापर्ण मस्तु||


Download pdf
Back