Shree Swami Samarth Nam:

|| श्री स्वामी समर्थ ||


||चाक्षुषोपनिषद ||


“चाक्षुषोपनिषद्” अथवा “चाक्षुषी” विद्या
समस्त प्रकार के नेत्र रोगों के नाश के लिए पढ़ी जाती है.

ॐ तस्याश्चाक्षुषीविद्याया अहिर्बन्ध्यु ऋषः
गायत्री छन्दः
सूर्यो देवता
चक्षूरोगनिवृत्तये जपे विनियोगः।

ॐ चक्षुः चकः चक्षुः तेजः स्थिरो भव ।
मां पाहि पाहि ।
त्वरितं चक्षुरोगान् शमय शमय ।
मम जातरूपं तेजो दर्शय दर्शय ।
यथाहं अन्धो न स्यां तथा कल्पय कल्पय ।
कल्याणं कुरु कुरु ।
यानि मम पूर्वजन्मोपार्जितानि चक्षुः
प्रतिरोधकदुष्कृतानि तानि सर्वाणि निर्मूलय निर्मूलय ।
ॐ नमः चक्षुस्तेजोदात्रे दिव्याय भास्कराय ।
ॐ नमः करुणाकरायामृताय ।
ॐ नमः सूर्याय ।
ॐ नमो भगवते सूर्यायाक्षितेजसे नमः ।
खेचराय नमः ।महते नमः ।रजसे नमः ।
तमसे नमः ।
असतो मा सद्गमय ।
तमसो मा ज्योतिर्गमय ।
मृत्योर्मा अमृतं गमय ।
उष्णो भगवाञ्छुचिरूपः ।
हंसो भगवान् शुचिरप्रतिरूपः ।
य इमां चक्षुष्मतीविद्यां ब्राह्मणो नित्यमधीते न तस्याक्षिरोगो भवति ।
न तस्य कुले अन्धो भवति । अष्टौ ब्राह्मणान् ग्राहयित्वा विद्यासिद्धिर्भवति।।
ॐ नमो भगवते आदित्याय अहोवाहिनी अहोवाहिनी स्वाहा ।


॥ श्रीगुरुदत्तात्रेयार्पणमस्तु ॥
|| श्री स्वामी समर्थापर्ण मस्तु||

Download pdf
Back