श्रीगणेशाय नमः ।
श्री पार्वत्युवाच ।
भगवन् सर्वमाख्यातं मन्त्रं यन्त्रं शुभ प्रदम् ।
भवान्याः कवचं ब्रूहि यद्यहं वल्लभा तव ॥ १॥
ईश्वर उवाच ।
गुह्याद्गुह्यतरं गोप्यं भवान्याः सर्वकामदम् ।
कवचं मोहनं देवि गुरुभक्त्या प्रकाशितम् ॥ २॥
राज्यं देयं च सर्वस्वं कवचं न प्रकाशयेत् ।
गुरु भक्ताय दातव्यमन्यथा सिद्धिदं नहि ॥ ३॥
ॐ अस्य श्रीभवानी कवचस्य सदाशिव ऋषिरनुष्टुप छन्दः,
मम सर्वकामना सिद्धयर्थे श्रीभवानी त्रैलोक्यमोहनकवच
पाठे विनियोगः
पद्मबीजाशिरः पातु ललाटे पञ्चमीपरा ।
नेत्रे काम प्रदा पातु मुखं भुवन सुन्दरी ॥ ४॥
नासिकां नारसिंही च जिह्वां ज्वालामुखी तथा ।
श्रोत्रे च जगतां धात्री करौ सा विन्ध्यवासिनी ॥ ५॥
स्तनौ च कामकामा च पातु देवी सदाशुचिः ।
उदरं मोहदमनी कण्डली नाभमण्डलम् ॥ ६॥
पार्श्वं पृष्ठकटी गुह्यस्थाननिवासिनी ।
ऊरू मे हिङ्गुला चैव जानुनी कमठा तथा ॥ ७॥
पादौ विघ्नविनाशा च अङ्गुलीः पृथिवी तथा ।
रक्ष-रक्ष महामाये पद्मे पद्मालये शिवे ॥ ८॥
वाञ्छितं पूरयित्वा तु भवानी पातु सर्वदा ।
य इदं कवचं देव्या जानाति सच मन्त्रवित् ॥ ९॥
राजद्वारे श्मशाने च भूतप्रेतोपचारिके ।
बन्धने च महादुःखे पठेच्छत्रुसमागमे ॥ १०॥
स्मरणात्कवचस्यास्य निर्भयो जायते नरः ।
प्रयोगमुपचारस्य भवान्याः कर्तुमिच्छति ॥ ११॥
कवचं प्रपठेदादौ ततः सिद्धिमवाप्नुयात् ।
भूर्जपत्रे लिखित्वा तु कवचं यस्तुधारयेत् ॥ १२॥
देहे च यत्र कुत्रापि सर्व सिद्धिर्भवेन्नरः ।
शस्त्रास्त्रस्य भयं नैव भूतादि भयनाशनम् ॥ १३॥
गुरु भक्तिं समासाद्य भवान्यास्तवनं कुरु ।
सहस्र नाम पठने कवचं प्रथमं गुरु ॥ १४॥
नन्दिने कथितं देवि तवाग्रे च प्रकाशितम् ।
सागन्ता जायते देवि नान्यथा गिरिनन्दिनि ॥ १५॥
इदं कवचमज्ञात्वा भवानीं स्तौतियो नरः ।
कल्प कोटि शतेनापि नभवेत्सिद्धिदायिनी ॥ १६॥
॥ इति श्री भवानी त्रैलोक्य मोहन कवचं सम्पूर्णम् ॥