देव्युवाच
देवदेवं महादेव भक्तानां प्रीतिवर्द्धनम्।
सृचितं यन्मया देव्याः कवच कथयस्व मे।
महादेवोवाच -
शृणु देवि प्रवक्ष्यामि कवचं देवदुर्लभम्।
अप्रकाश्यं परं गुहय॑ साधकाभीष्टसिद्धये ॥
कवचस्य ऋषिर्देवि _ दक्षिणामूर्तीरव्ययः।
छन्दः पंक्तिः समुद्दिष्टो बालात्रिपुरसुन्दरी ॥
धर्मार्थकाम मोक्षाणां विनियोगस्तु साधने।
वाग्भवं कामराजञ्च शकतिबीज मुदाहृतम्॥
वाग्भवं पातु शिरसि कामराजं सदा हदि ।
शक्तिबीजं सदा पातु नाभौ गुह्ये च पादयो ॥
ऐं क्लीं सौः वदने पातु बाला सर्वार्थसिद्धये ।
जिह्वां पातु महाहंसी स्कन्धदेशे तु भैरवी॥
सुन्दरी नाभिदेशं तु शिरसि कमला सदा ।
भुवौ नासाद्रयं पातु महात्रिपुरसुन्दरी ॥
ललाटे शुभगा पातु कण्ठदेशे तु मालिनी।
वाग्भवं पातु हृदये उदे भगसर्पिणी ॥
भगमालिनी नाभिदेशे लिंगे पातु मनोभवा।
गुह्ये पातु महादेवी राजराजेश्वरी शिवा॥
चैतन्यरूपिणी पातु पादयोर्जगदम्बिका।
नारायणी सर्वगात्रे सर्वकाले शिवङ्गरी॥
ब्रह्माणी पातु मां पूर्वे दक्षिणे पातु वैष्णवी
पश्चिमे पातु वाराहि उत्तरे तु महेश्वरी
आग्नेयां पातु कौमारि महालक्ष्मिस्तु नैरुत्ते
वायव्यां पातु चामुण्डा इन्द्राणि पातु ईशके
आकाशे च महामाया पृथिव्यां सर्वमंगला।
आत्मानं पातु वरदा सर्वागे भुवनेश्वरी ॥
यदीदं कवचं देव्याः त्रैलोक्ये चापि दुर्लभम्।
यः पठेत्प्रातरुत्थाय शुचिः प्रयतमानसः ॥
न रोगो नापदो व्याधिर्भयं क्वापि न जायते।
न च मूर्खभयं तस्य पातकानां भयं कदा ॥
न दारिद्रयवशं गच्छेत् मृत्युनाशं यथारयः।
गच्छेच्छिवपुरं देवि सत्यं सत्यं वदाम्यहम् ॥
यदीदं कवचं ज्ञात्वा श्रीबालां यो जपेत्पये ।
स प्राप्नोति फलं सर्व शिवसायुज्य सम्भवम् ॥
॥ इति श्रीसिद्धयामले श्री बालाकवचम्॥