विश्वानर उवाच-
एके ब्रह्मैवाद्वितीयं समस्तं सत्यं सत्यं नेह नान्यास्ति किञ्चित् ।
एको रुद्रोवाद्वितीयोऽवतस्थेतस्मादेकं त्वां प्रपद्ये महेशम् ॥ १॥
एकः कर्त्तात्वं हि विश्वस्य शम्भो नानारूपेष्वेकरूपोऽस्य रूपः ।
यद्वत्तपत्यर्क रूपोऽप्यनेकस्तस्मान्नान्यं त्वां दिनेशं प्रपद्ये ॥ २॥
रज्जौ सर्पः शुक्तिकायां च रौप्यं नैरे पुरस्तन्मृगाख्येमरीचौ ।
यद्वत्तद्वद्विष्वगेष प्रपञ्चौ यस्मिन् ज्ञाते तं प्रपद्ये महेशम् ॥ ३॥
तोये शैत्यं दाहकत्वं च वह्नौ तापो भानौ शीत भानौ प्रसादः ।
पुष्पे गन्धौ दुग्धमध्ये च सर्पिर्यत्तच्छम्भोत्वं ततस्त्वां प्रपद्ये ॥ ४॥
शब्दं गृहणास्य श्रावस्त्वं हि जिघ्रस्य घ्राणस्त्वं व्यङ्घ्रिरायासि दूरात ।
व्यक्षः पश्येस्त्वं रसज्ञोऽत्यजिह्वः कस्त्वां सम्यग्वेत्यतस्त्वां प्रपद्ये ॥ ५॥
नो वेदस्त्वामीश साक्षाद्धि वेद नो वा विष्णुनो विधाताखिलस्य ।
नो योगीन्द्रा नेद्रमुख्याश्च देवा भक्तो वेद त्वामतस्त्वां प्रपद्ये ॥ ६॥
नो ते गोत्रं नापि जन्मापि नाख्या नो वा रूपं नैव शीलं न देशः ।
इत्थम्भूतोऽपीश्वरस्त्वं त्रिलोक्याः सर्वान्कामान्पूरयेस्तद्भजे त्वाम् ॥ ७॥
त्वत्तः सर्वत्वं हि सर्व स्मरारेत्वं गौरीशस्त्वं च नग्नोऽतिशान्तः ।
त्वं वै वृद्धस्त्वं युवा त्वं च बालस्तत्किं यत्त्वं नास्यतस्त्वां नतोऽस्मि ॥ ८॥
स्तुत्वेति भूमौ निपपात विप्रः स दण्डवद्यावदतीव हृष्टः ।
तावत्स बालोऽखिलवृद्धवृद्धः प्रोवाच भूदेव वरं वृणीहि ॥ ९॥
ततोत्थाय हृष्टात्मा मुनिर्विश्वानरः कृती ।
प्रत्यव्रवीत्किमज्ञातं सर्वज्ञस्य तव प्रभो ॥ १०॥
सर्वान्तरात्मा भगवान् शर्वः सर्वप्रदो भवान् ।
याञ्चा प्रतिनियुङ्क्ते मामयशोदैन्य कारिणी ॥ ११॥
इति श्रुत्वा वचस्तस्य देवा विश्वानरस्य ह ।
शुचे शुचि व्रतस्याथशुचिः स्मित्वा ब्रवीच्छिवः ॥ १२॥
वाल उवाच -
त्वया शुचे शुचिष्मत्यां योऽभिलाषः कृतोहृदि ।
अभिरेणैव काले वत्स भविष्यत्यसंशयः ॥ १३॥
तव पुत्रत्वमेष्यामि शुचिष्मत्यां महामते ।
ख्यातो गृहपतिर्नाम्ना शुचिः सर्वामरप्रियः ॥ १४॥
अभिलाषाष्टकं पुण्यं स्तोत्रमेतत्वयेरितम् ।
अर्ब्द त्रिकाल पठनात्कामदं शिव सन्निधौ ॥ १५॥
एतत्स्तोत्रस्य पाठं तु पुत्र पौत्र धनप्रदम् ।
सर्व शान्ति करं वापि सर्वापत्यरिनाशनम् ॥ १६॥
स्वर्गापवर्ग सम्पत्तिकारकं नात्र संशयः ।
प्रातरुत्थाय सुस्नानो लिङ्गमभ्यर्च्य शाम्भवम् ॥ १७॥
वर्ष जपन्निदं स्तोत्रमपुत्रः पुत्रवान्भवेत् ।
वैशाखे कार्त्तिके माघे विशेष नियमैर्युतः ॥ १८॥
यः पठेत्स्नान समये लभते सकलं फलम् ।
कार्त्तिकस्य तु मासस्य प्रसादादहमव्ययः ॥ १९॥
तव पुत्रत्वमेष्यामि यस्त्वन्यस्त्पठिष्यति ।
अभिलाष्टकमिदं न देयं यस्य कस्य चित् ॥ २०॥
गोपनीयं प्रयत्नेन एवं वन्ध्या प्रसूतिकृत ।
स्त्रिया व पुरूषेणापि त्रियमाल्लिङ्ग सन्निधौ ॥ २१॥
अब्दं जप्तमिदं स्तोत्रं पुत्रदं नात्र संशयः ।
इत्युक्तान्तर्दधे वालः सोऽपि विप्रो गृहं गतः ॥ २२॥
इति स्कन्दपुराणे काशीखण्डे अभिलाषाष्टकं स्तोत्रं समाप्तम् ।