Shree Swami Samarth Nam:

|| श्री स्वामी समर्थ ||


||श्रीमत्‌ अक्कककोटस्वामी समर्थ अथर्वशीर्षम्‌ ||



।श्री गणेशाय नमः ।

। श्रीमत्परमहंस-परिव्राजकाचार्य
अक्कलकोटस्वामी समर्थाय नम:।

।अथ ध्यानम्।
ॐ ध्यायेच्छान्तं प्रशान्तं कमलसुनयनं योगिराजं दयालुम्‌।
देवं मुद्रासनस्थं विमलतनुयुतं मन्दहास्यं कृपालुम्‌।।
सद्यो यो ध्यातमात्रों हरति च सकलां पापजालौघराशीन।
भक्तानां हन्निवासों जयति सविदधत्‌ केवलानन्दकन्दम्‌।।

श्रीमत्स्वामीसमर्थाथर्वशीर्ष प्रारभ्यते
। हरिः ॐ ।
ॐ नमः श्रीस्वामीसमर्थाय परमहंसाय दिव्यरूपधारिणे।
ॐ नम: प्रत्यक्ष दत्तात्रेयाऽत्मने।
ॐ नमः श्रीपाद श्री वल्लभावतारधारिणे।
ॐ नम: श्रीमन्नरसिंहसरस्वत्यवतारधारिणे।
ॐ नमः गाणगापुरादिनानाक्षेत्रनिवासिने।
ॐ नमः अंबिकानगरेऽवतारिणे।
ॐ नमः कर्दलीवनवासिने।
3३% नमोऽवधूताय स्वेच्छाचारिणे।
ॐ नमः आजानुबाहवे।
ॐ नमोऽयोनिसंभवे।
ॐ नम: कैवल्यानन्दसच्चिदानन्दस्वरूपिणे ।।

त्वं परतत्त्वमयः ।

ॐ तत्सदादिमहावाक्यैः सम्बोधितः ।

त्वं पृथिव्यादि पञ्चमहाभुतः स्वरूपः ।
त्वं अष्टधा प्रकृति पुरूषात्मकः ।
त्वं मूलाधारादि षट्चक्रस्थित दैवतात्मकः ।
त्वं चराचरसाक्षी ।
त्वं ज्ञानमयो विज्ञानमय:।
त्वं पूर्णानंदमयोसि।
त्वं ब्रह्मज्ञैः संपूजित:।
त्वं प्रत्यक्ष कैवल्यमसि।
त्वं प्रत्यक्ष ब्रह्मासि।

सर्व॑ जगदेतत्‌ त्वत्तो जायते।
सर्व जगदेतत्‌ त्त्वयि विद्यते।
सर्व जगदेतत्‌ त्तवयि लीयते।

त्वामहं ध्यायामि नित्यम्‌ ।।
प्राच्यां पाहि । प्रतीच्यां पाहि ।
दक्षिणस्यां पाहि । उत्तरस्यां पाहि ।
उर्ध्वात् पाहि । अधस्तात् पाहि ।
सर्वतः पाहि पाहि माम् ॥

भयेभ्यसत्राहि। संसारमहाभयान्मामुद्धरोद्धर।
शरणागतोऽस्मि त्वाम् ॥

ॐ दत्तात्रेयाय विद्मेहे
ॐ परमहँसाय धीमहि।
ॐ तन्नः स्वामी प्रचोदयात्‌।

आजानुबाहुं गौराङ्गं दिव्यकौपिनधारिणम् ।
तुलसीबिल्वपुष्पादि अष्टगन्धैः सुपूजितम् ।
भक्तोद्धारैक ब्रीदं च स्मरणे भक्ततारकम् ।
ध्यायामि हृदयाकाशे सच्चिदानन्दरूपिणम् ॥

'ॐ स्वामी समर्थ' इति महामन्त्रः ।
महाभय विनाशकः ।
नादानुसन्धाने स्वामीति जप्त्वा पापजालं प्रणश्यति ।
स्वस्वरूपसन्धाने स्वामीति जप्त्वा सच्चिदानन्दं प्राप्नोति ।
आत्मसाक्षात्कारो भवति ॥

नमाम्यहं दिव्यरूपं जगदानन्ददायकम् ।
महायोगेश्वरं वन्दे ब्रह्माविष्णुमहेश्वरम् ।
शक्तिं गणपतिं चैव सर्वदेवमयं भजे ।
कृपालु भक्तवरदं वन्देऽहं सर्वसाक्षिणम् ॥

ॐ शान्तिः शान्तिः शान्तिः ।सुशान्तिर्भवतु ॥

ॐ अवधूतचिन्तन दत्तरूपिणे श्री स्वामी-समर्थार्पणमस्तु ।

सर्वेऽपि सुखिनः सन्तु सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु क्वचिदज्ञानी मा भवेत्॥

इति श्रीस्वामीसमर्थाथर्वशीर्षं सम्पूर्णम् ।

॥ श्रीगुरुदत्तात्रेयार्पणमस्तु ॥
|| श्री स्वामी समर्थापर्ण मस्तु||


Download pdf
Back