Gurudev

Shree Swami Samarth Nam:

|| श्री स्वामी समर्थ ||


||अमृत सञ्जीवन धन्वन्तरि स्तोत्रम् ||


पूर्वपीठिका –
अथाऽबलमहं वक्ष्येऽमृतसञ्जीवनं स्तवम् ।
यस्याऽनुष्टानमात्रेण मृत्युर्दूरात्पलायते ॥ १ ॥

असाध्याः कष्टसाध्याश्च महारोगा भयङ्कराः ।
शीघ्रं नश्यन्ति पठनादस्यायुश्च प्रवर्धते ॥ २ ॥

शाकिनी डाकिनी दोषाः कुदृष्टिर्ग्रह शतृजाः ।
प्रेत वेताल यक्षोत्ता बाधा नश्यन्ति चाऽखिलाः ॥ ३ ॥

दुरितानि समस्तानि नाना जन्मोद्भवानि च ।
संसर्गज विकाराणि विनीयन्तेऽस्य पाठतः ॥ ४ ॥

सर्वोपद्रव नाशाय सर्वबाधा प्रशान्तये ।
आयुः प्रवर्धये चैतत् स्तोत्रम् परममद्भुतम् ॥ ५ ॥

बालग्रहाभिभूतानां बालानां सुखदायकम् ।
सर्वारिष्टहरं चैतद्बलपुष्टिकरं परम् ॥ ६ ॥

बालानां जीवनायैतत् स्तोत्रम् दिव्यं सुधोपमम् ।
मृतवत्सत्वहरणं चिरञ्जीवित्वकारकम् ॥ ७ ॥

महारोगाभिभूतानां भयव्याकुलितात्मनाम् ।
सर्वाधिव्याधिहरणं भयघ्नममृतोपमम् ॥ ८ ॥

अल्पमृत्युश्चापमृत्युः पाठादस्यः प्रणश्यति ।
जलाऽग्नि विष शस्त्रादि न हि शृङ्गि भयं तथा ॥ ९ ॥

गर्भरक्षाकरं स्त्रीणां बालानां जीवनप्रदम् ।
महारोगहरं नॄणामल्पमृत्युहरं पदम् ॥ १० ॥

बाला वृद्धाश्चदरुणा नरा नार्यश्च दुःखिताः ।
भवन्ति सुखिनः पाठादस्यलोके चिरायुषः ॥ ११ ॥

अस्मात्परतरं नास्ति जीवनोपाय केहि कः ।
तस्मात्सर्वप्रयत्नेन पाठमस्य समाचरेत् ॥ १२ ॥

मयुतावृत्तिकं वा च सहस्रावृत्तिकं तथा ।
वदर्थं वा तदर्थं वा पठेदेतच्च भक्तितः ॥ १३ ॥

कलशे विष्णुमाराध्य दीपं प्रज्वाल्य यत्नतः ।
सायं प्रातश्च विधिवत् स्तोत्रमेतत्पठेत्सुधीः ॥ १४ ॥

सर्पिषा हविषा वाऽभिसम्यागेनाऽथ भक्तितः ।
दशाम्शमानदो होमं कुर्यात्सर्वार्थ सिद्धये ॥ १५ ॥

स्तोत्रम् –
नमो नमो विश्वविभावनाय
नमो नमो लोकसुखप्रदाय ।
नमो नमो विश्वसृजेश्वराय
नमो नमो मुक्तिवरप्रदाय ॥ १ ॥

नमो नमस्तेऽखिललोकपाय
नमो नमस्तेऽखिलकामदाय ।
नमो नमस्तेऽखिलकारणाय
नमो नमस्तेऽखिलरक्षकाय ॥ २ ॥

नमो नमस्ते सकलार्त्रिहर्त्रे
नमो नमस्ते विरुजः प्रकर्त्रे ।
नमो नमस्तेऽखिलविश्वधर्त्रे
नमो नमस्तेऽखिललोकभर्त्रे ॥ ३ ॥

सृष्टं देव चराचरं जगदिदं ब्रह्मस्वरूपेण ते
सर्वं तत्परिपाल्यते जगदिदं विष्णुस्वरूपेण ते ।
विश्वं संहितये तदेव निखिलं रुद्रस्वरूपेण ते
संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय ॥ ४ ॥

यो धन्वन्तरिसञ्ज्ञया निगदितः क्षीराब्धितो निःसृतो
हस्ताभ्यां जनजीवनाय कलशं पीयूषपूर्णं दधत् ।
आयुर्वेदमरीरचज्जनरुजां नाशाय स त्वं मुदा
संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय ॥ ५ ॥

स्त्रीरूपं वरभूषणाम्बरधरं त्रैलोक्यसम्मोहनं
कृत्वा पाययति स्म यः सुरगणान्पीयूषमत्युत्तमम् ।
चक्रे दैत्यगणान् सुधाविरहितान् सम्मोद स त्वं मुदा
संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय ॥ ६ ॥

चाक्षुषोदधिसम्प्लाव भूवेदप झषाकृते ।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ ७ ॥

पृष्ठमन्दरनिघूर्णनिद्राक्ष कमठाकृते ।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ ८ ॥

याञ्चाच्छलबलित्रासमुक्तनिर्जर वामन ।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ ९ ॥

धरोद्धार हिरण्याक्षघात क्रोडाकृते प्रभो ।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ १० ॥

भक्तत्रासविनाशात्तचण्डत्व नृहरे विभो ।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ ११ ॥

क्षत्रियारण्यसञ्छेदकुठारकररैणुक ।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ १२ ॥

रक्षोराजप्रतापाब्धिशोषणाशुग राघव ।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ १३ ॥

भूभारासुरसन्दोहकालाग्ने रुक्मिणीपते ।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ १४ ॥

वेदमार्गरतानर्हविभ्रान्त्यै-र्बुद्धरूपधृक् ।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ १५ ॥

कलिवर्णाश्रमास्पष्टधर्मर्थ्यै कल्किरूपभाक् ।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ १६ ॥

असाध्याः कष्टसाध्या ये महारोगा भयङ्कराः ।
छिन्दि तानाशु चक्रेण चिरं जीवय जीवय ॥ १७ ॥

अल्पमृत्युं चाऽपमृत्युं महोत्पातानुपद्रवान् ।
भिन्दि भिन्दि गदाघातैश्चिरं जीवय जीवय ॥ १८ ॥

अहं न जाने किमपि त्वदन्या-
त्समाश्रये नाथ पदाम्बुजं ते ।
कुरुष्व तद्यन्मनसीप्सितं ते
सुकर्मणा केन समक्षमीयाम् ॥ १९ ॥

त्वमेव तातो जननी त्वमेव
त्वमेव नाथश्च त्वमेव बन्धुः ।
विद्याधनागारकुलं त्वमेव
त्वमेव सर्वं मम देवदेव ॥ २० ॥

न मेऽपराधं प्रविलोकय प्रभो-
ऽपराधसिन्धोश्च दयानिधिस्त्वम् ।
तातेन दुष्टोऽपि सुतः सुरक्षते
दयालुता तेऽवतु सर्वदाऽस्मान् ॥ २१ ॥

अहह विस्मर नाथ न मां सदा
करुणया निजया परिपूरितः ।
भुवि भवान् यदि मे न हि रक्षकः
कथमहो मम जीवनमत्र वै ॥ २२ ॥

दह दह कृपया त्वं व्याधिजालं विशालं
हर हर करवालं चाऽल्पमृत्योः करालम् ।
निजजनपरिपालं त्वां भजे भावयालं
कुरु कुरु बहुकालं जीवितं मे सदाऽलम् ॥ २३ ॥

[* अयत्र धर्माचरणं न जानं
ऋतं मया को न च विष्णु चर्चा ।
न पितृकोऽपि प्रमरामरार्चा
स्वल्पायुषस्तत्र जना भवन्ति ॥ २४ ॥

मन्त्रं –
क्लीं श्रीं क्लीं श्रीं नमो भगवते जनार्दनाय सकल
दुरितानि नाशय नाशय ।
क्ष्रौं आरोग्यं कुरु कुरु ।
ह्रीं दीर्घमायुर्देहि देहि स्वाहा ॥ १ ॥

फलश्रुतिः –
अस्य धारणतो जापादल्पमृत्युः प्रशाम्यति ।
गर्भरक्षाकरं स्त्रीनां बालानां जीवनं परम् ॥ १ ॥

शतं पञ्चाशतं शक्त्याऽथवा पञ्चाधिविम्शतिम् ।
पुस्तकानां द्विजेभ्यस्तु दद्याद्दीर्घायुषाप्तये ॥ २ ॥

भूर्जपत्रे विलिख्येदं कण्ठे वा बाहुमूलके ।
सन्धारयेद्गर्भरक्षा बालरक्षा प्रजायते ॥ ३ ॥

सर्वे रोगा विनश्यन्ति सर्वा बाधा प्रशाम्यति ।
कुदृष्टिजं भयं नश्येत् तथा प्रेतादिजं भयम् ॥ ४ ॥

मया कथितमेतत्ते अमृतसञ्जीवनं परम् ।
अल्पमृत्युहरं स्तोत्रम् मृतवत्सत्वनाशनम् ॥ ५ ॥

इति सुदर्शनसंहितोक्तं अमृतसञ्जीवन धन्वन्तरि स्तोत्रम् ॥


॥ श्रीगुरुदत्तात्रेयार्पणमस्तु ॥
|| श्री स्वामी समर्थापर्ण मस्तु||


Download pdf
Back