Shree Swami Samarth Nam:

|| श्री स्वामी समर्थ ||

||श्री दीप लक्ष्मी स्तोत्रम् ||

दीपस्त्वमेव जगतां दयिता रुचिस्ते,
दीर्घं तमः प्रतिनिवृत्यमितं युवाभ्याम् ।
स्तव्यं स्तवप्रियमतः शरणोक्तिवश्यं
स्तोतुं भवन्तमभिलष्यति जन्तुरेषः ॥

दीपः पापहरो नॄणां दीप आपन्निवारकः
दीपो विधत्ते सुकृतिं दीपस्सम्पत्प्रदायकः ।
देवानां तुष्टिदो दीपः पितॄणां प्रीतिदायकः
दीपज्योतिः परम्ब्रह्म दीपज्योतिर्जनार्दनः ॥

दीपो हरतु मे पापं सन्ध्यादीप नमोऽस्तु ते ॥

फलश्रुतिः
या स्त्री पतिव्रता लोके गृहे दीपं तु पूरयेत् ।
दीपप्रदक्षिणं कुर्यात् सा भवेद्वै सुमङ्गला ॥

इति श्रीदीपलक्ष्मीस्तोत्रं सम्पूर्णम्
॥ श्रीगुरुदत्तात्रेयार्पणमस्तु ॥
|| श्री स्वामी समर्थापर्ण मस्तु||

Download pdf Back