Shree Swami Samarth Nam:

|| श्री स्वामी समर्थ ||

||श्री लक्ष्मी द्वादश नाम स्तोत्रम् ||

||(अथवा श्रीभद्रलक्ष्मीस्तवं) ||

श्रीतुलाकावेरीमाहात्म्ये द्वाविंशेऽध्याये श्रीकृष्णेन
अर्जुनायोपदिष्टं लक्ष्मीहृदयस्तोत्रम् ।

श्रीदेवी प्रथमं नाम द्वितीयं अमृतोद्भवा ।
तृतीयं कमला प्रोक्ता चतुर्थं चन्द्रशोभना ॥ १॥

पञ्चमं विष्णुपत्नी च षष्ठं श्रीवैष्णवी तथा ।
सप्तमन्तु वरारोहा अष्टमं हरिवल्लभा ॥ २॥

नवमं शार्ङ्गिणी प्रोक्ता दशमं देवदेविका ।
एकादशं महलक्ष्मीः द्वादशं लोकसुन्दरी ॥ ३॥

श्रीः पद्मा कमला मुकुन्दमहिषी लक्ष्मी त्रिलोकेश्वरी
मा क्षीराब्धिसुता विरिञ्चिजननी विद्या सरोजासना ।

सर्वाभीष्टफलप्रदेति सततं नामानि ये द्वादश प्रातः
शुद्धतराः पठन्त्यभिमतान् सर्वान् लभन्ते शुभान् ॥ ४॥

भद्रलक्ष्मीस्तवं नित्यं पुण्यमेतच्छुभावहम् ।
काले स्नात्वाऽपि कावेर्यां जप श्रीवृक्षसन्निदौ ॥

॥ इति श्रीलक्ष्मी द्वादशनामस्तोत्रं अथवा
श्रीभद्रलक्ष्मीस्तवं संपूर्णं ॥

इत्येतत् गोष्पति-प्रोक्तं लक्ष्मीहृदयमुत्तमम् ।
तौलौ स्नात्वा तु कावेर्यां जपेत् श्रीवृक्षसन्निधौ ॥

तौलौ सह्योद्भवा तीर्थे श्रीरङ्गे स्नानमाचरन् ।
जपेत् तत्कमलास्तोत्रं सर्वान् कामान् अवाप्नुयात् ॥

ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।
ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ १०॥

तेषामेवानुकम्पार्थं अहमज्ञानजं तमः ।
नाशयाम्यात्मभावस्थः ज्ञानदीपेन भास्वता ॥ ११॥

अस्येशाना त्वमसि जगतः संश्रयन्ती मुकुन्दं
लक्ष्मीः पद्मा जलधितनया विष्णुपत्नीन्दिरेति ।

यन्नामानि श्रुतिपरिपणान्येवमावर्तयन्तो
नावर्तन्ते दुरित-पवन-प्रेरिते जन्म चक्रे ॥

इति श्रीतुलाकावेरीमाहात्म्ये द्वाविंशेऽध्याये श्रीकृष्णेन
अर्जुनायोपदिष्टं लक्ष्मीहृदय स्तोत्रम् ।

॥ श्रीगुरुदत्तात्रेयार्पणमस्तु ॥
|| श्री स्वामी समर्थापर्ण मस्तु||

Download pdf Back