Shree Swami Samarth Nam:

|| श्री स्वामी समर्थ ||

|| ज्योतिर्लक्ष्मी स्तोत्रम||


श्री राम जयम् ।
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
ॐ ज्योतिर्लक्ष्म्यै च विद्महे । दीपद्युत्यै च धीमहि ।
तन्नो ज्योतिः प्रचोदयात् ।

ज्योतिस्स्वरूपिणी माता दीपलक्ष्मी सुमङ्गला ।
सा मां पातु सदा क्षेममङ्गलप्रदमातृका ॥ १।

ज्योतीरूपसुरागिण्यै दीपलक्ष्म्यै नमो नमः ।
दिव्यप्रकाशभासिन्यै भगदात्र्यै नमो नमः ॥ २।

मुखपञ्चप्रकाशिन्यै पञ्चज्युत्यै नमो नमः ।
स्मितमुत्यसुशोभिन्यै सिताभायै नमो नमः ॥ ३।

पिङ्गाशवर्णसौम्यायै पिङ्गलायै नमो नमः ।
रौप्यसाभाससौन्दर्यदीपद्युत्यै नमो नमः ॥ ४।

तमस्तिमिरहारिण्यै ज्ञानदीप्त्यै नमो नमः ।
मनःप्रकाशकारिण्यै सानन्दायै नमो नमः ॥ ५।

कुङ्कुमाङ्कितशोभायै पूजितायै नमो नमः ।
पुष्पार्चितातिभद्रायै पुण्यकीर्त्यै नमो नमः ॥ ६।

त्यागराजगुरुस्वमितेजोरूपे नमोस्तुते ।
शिष्यापुष्पानुतागीतज्योतिर्लक्ष्मि नमोस्तुते ॥ ७।

मङ्गलं दीपलक्ष्म्यै च मङ्गलायै सुमङ्गलम् ।
ज्योतिःप्रकाशरूपिण्यै ज्योतिर्लक्ष्म्यै सुमङ्गलम् ॥ ८।

श्रीवत्सः श्रीशसानन्दः श्रीवत्सं पातु सर्वदा ।
आयुरारोग्यसम्पत्तिं ददातु मङ्गलं वरम् ।

इति सद्गुरुश्रीत्यागराजस्वामिनः
शिष्यया भक्तया पुष्पया कृतं
ज्योतिर्लक्ष्मीस्तोत्रं गुरौ समर्पितम् ।
ॐ शुभमस्तु ।
॥ श्रीगुरुदत्तात्रेयार्पणमस्तु ॥
|| श्री स्वामी समर्थापर्ण मस्तु||

Download pdf Back