Shree Swami Samarth Nam:

|| श्री स्वामी समर्थ ||

|| महालक्ष्मी चतुर्विंशति नाम स्तोत्रम् ||


नमःश्रियै लोक धात्र्यै ब्रह्ममात्रे नमो नमः ।
नमस्ते पद्म नेत्रायै पद्म मुख्यै नमो नमः ॥

प्रसन्न मुख पद्मायै पद्म कान्त्यै नमो नमः ।
नमो बिल्व वनस्थायै विष्णु पत्न्यै नमो नमः ॥

विचित्र क्षौम धारिण्यै पृथुश्रोण्यै नमो नमः ।
पक्वबिल्व-फलापीनतुञ्गस्तन्यै नमो नमः ॥

सुरक्त-पद्म-पत्राभकर-पादतले शुभे ।
सरत्नाञ्गदकेयूरकाङ्चीनूपुर शोभिते ॥

यक्षकर्दमसंलिप्तसर्वाञ्गे कटकोज्ज्वले ।
माङ्गल्याभरणैश्चित्रैर्मुक्ताहारैर्विभूषिते ॥

ताटङ्कैरवतंसैश्च शोभमानमुखाम्बुजे ।
पद्महस्ते नमस्तुभ्यं प्रसीद हरिवल्लभे ॥

ऋग्यजुस्सामरूपायै विद्यायै ते नमो नमः ।
प्रसीदास्मान् कृपा दृष्टि पातैरालोकयाब्धिजे ॥

ये स्थानहीनाः स्वस्थानात् श्रुत्वा स्थानमवाप्नुयुः ।
इति श्रीवेङ्कटेशमहिषी महालक्ष्मीचतुर्विंशतिनामस्तोत्रम् ॥

॥ श्रीगुरुदत्तात्रेयार्पणमस्तु ॥
|| श्री स्वामी समर्थापर्ण मस्तु||

Download pdf Back